Friday, February 19, 2010

Hariharasuthashtakam a.k.a. Harivarasanam

Harivarasanam is a sloka on Lord Ayyappa composed by K Kulathur Iyer and it is said that it was sung for the first time in Sabarimala temple by Swami Vimochanananda in 1955. This hymn is sung as a lullaby to the Lord when the doors of the Sanctum Sanctorum are closed every night. The chief priest (Melsanthi) and other priests stand on either side of the deity and recite the hymn. While singing the hymn, the priests leave the Sanctum Sanctorum one by one without making noise. The Chief priest starts putting off the lamps one by one when the song is halfway through and when the final line is sung, the last lamp is extinguished and he closes the door, locks it for the night.

Those who have heard the rendition at the Sannidhanam, have poignant memories.

॥हरिहरसुताष्टकम्॥

हरिवरासनं विश्वमोहनं हरिदधीश्वरं आराध्यपाधुकम्। अरिविमर्धनं नित्यनर्तनं हरिहरात्मजं देवमाश्रये॥१

शरणं अय्यप्पा स्वामि शरणं अय्यप्पा शरणं अय्यप्पा स्वामि शरणं अय्यप्पा चरणकीर्तनं भक्तमानसं भरणलोलुपं नर्तनालसम्। अरुणभासुरं भूतनायकं हरिहरात्मजं देवमाश्रये॥२

शरणं प्रणयसत्यकं प्राणनायकं प्रणतकल्पकं सुप्रभाञ्चितम्। प्रणवमन्दिरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये॥३

शरणं तुरगवाहनं सुन्दराननं वरगधायुधं वेदवर्णितम्। गुरुकृपाकरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये॥४

शरणं त्रिभुवनार्चितं देवतात्मकं त्रिनयनं प्रभुं दिव्यदेशिकम्। त्रिदशपूजितं चिन्तितप्रदं हरिहरात्मजं देवमाश्रये॥५

शरणं भवभयापहं भावुकावहं भुवनमोहनं भूतिभूषणम् धवलवाहनं दिव्यवारणं हरिहरात्मजं देवमाश्रये॥६

शरणं कलमृदुस्मितं सुन्दराननं कलभकोमलं गात्रमोहनम् कलभकेसरी वाजिवाहनं हरिहरात्मजं देवमाश्रये॥७

शरणं श्रितजनप्रियं चिन्तितप्रदं श्रुतिविभूषणं साधुजीवनम् श्रुतिमनोहरं गीतलालसं हरिहरात्मजं देवमाश्रये॥८ शरणं

Monday, February 8, 2010

Maalaadu

Ingredients:
Sugar- 1 cup 
Fried Gram (Pottu kadalai)- 1 cup 
Cardamom- 10 
Cashew nuts -8-10 
Raisins-8-10 
Ghee- 1/4 to 1/2 cup (Recipe Courtesy Prabha’s Palumma)

Method:
Powder fine sugar and fried gram separately and mix well. Powder cardamom seeds also and mix. Break cashew nuts into small bits. In a spoonful of ghee, roast cashew nuts until golden and add raisins and remove from fire. Add this to the powder mixture and mix well. Heat the rest of the ghee. Add a little warm ghee at intervals, mix with the powder and make into a ball. If ghee is not enough, you cannot make the ball stand. If ghee is too much, it will be too sticky.

Wednesday, February 3, 2010

Soundaryalahiri

The Soundaryalahari is a famous literary work in Sanskrit written by Adi Shankara. Soundaryalahari means Waves of Beauty. It consists of 100 slokas and it is extolled as the essence of Mantra sastra. It is also a tantra treatise and a unique yantra is attributed to each verse. The ritual recitation of each verse accompanied by its Yantra is said to convert it into a potent Mantra yielding specific benefits. It is often said that the verses are quasi-divine and different interesting stories are told about its origin and authorship.
One story goes like this . Adi Shankara visited Kailasa, the abode of Shiva and Parvati to worship them. Shiva, pleased gave him a manuscript containing 100 verses written by Himself. When Shankara was returning from Kailasa, Nandi stopped him and snatched the manuscript. Luckily Shankara was able to hold on to a part of the document containing the first 41 verses (which shed light on the powerful and ancient Tantra rituals, Yantras and Mantras).
Shankara was disconsolate and ran back to Shiva and apprised him of the matter. Shiva, directed him to keep the original 41 and write 59 more verses on Devi on his own. Accordingly Shankara composed 59 verses extolling the beauty of Devi. The first 41 verses which are highly philosophical and full of mysticism, are generally known as Anandalahari and the entire 100 verses as Soundaryalahari.
Another version of the story about the origin is that, Adi Shankara, during his stay in Kashi (Varanasi) transported himself to Kailasa where he found written on the wall of the Shiva temple, 100 beautiful verses on Devi authored by Shiva himself. He was entranced by the beauty of the composition and started reading and memorizing them. Ganesha, who came there felt that the verses were too sacred to be made known to mankind and therefore started erasing the same from the end. By the time, Shankara had read and memorized 41 verses, the rest had been erased by Ganesha. Shiva consoled his devotee and commanded him to compose 59 more verses to complete the treatise.
Yet another account mentions that all the 100 slokas were engraved on Mount Kailash on the temple walls. An ascetic called Pushpadanta copied it on the mount Meru. Shankara’s guru Gaudapada read what was on Mount Meru by his Gnana Dhrishti and taught the same (upadesam) to Shankara. Irrespective of the origin, there is no denial that Soundaryalahari is an unequalled treatise on Devi worship.
सौन्दर्यलहरी
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितु-मपि। अतस्त्वा-माराध्यां हरि-हर-विरिञ्चादिभि-रपि प्रणन्तुं स्तोतुं वा कथ-मकृतपुण्यः प्रभवति॥ १॥

तनीयांसं पांसुं तव चरण-पङ्केरुह भवं विरिञ्चिः संचिन्वन् विरचयति लोका-नविकलम्। वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरः संक्षुद्द्यैनं भजति भसितोद्धूलन-विधिम्॥ २॥

अविद्याना-मन्त-स्तिमिर-मिहिर-द्वीपनगरी जडानां चैतन्य-स्तबक-मकरन्द-स्रुतिझरी। दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति॥३॥

त्वदन्यः पाणिभ्या-मभयवरदो दैवतगणः त्वमेका नैवासि प्रकटित-वराभीत्यभिनया। भयात् त्रातुं दातुं फलमपि च वांछासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ॥ ४॥

हरिस्त्वामाराध्य प्रणत-जन-सौभाग्य-जननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभ-मनयत्। स्मरोऽपि त्वां नत्वा रतिनयन लेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्॥ ५॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरु-दायोधन-रथः। तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां अपांगात्ते लब्ध्वा जगदिद-मनङ्गो विजयते॥ ६॥

क्वणत्कांची-दामा करिकलभ-कुंभ-स्तन-नता परिक्षीणा मध्ये परिणत-शरच्चन्द्र-वदना। धनु-र्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्ता दास्तां नः पुरमथितु-राहो-पुरुषिका॥ ७॥

सुधासिन्धो-र्मध्ये सुरविटपि-वाटी-परिवृते मणिद्वीपे नीपोपवनवति चिन्तामणि-गृहे। शिवाकारे मञ्चे परमशिव-पर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम्॥ ८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुत-माकाश-मुपरि। मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे॥ ९॥

सुधाधारासारैः चरणयुगलान्त-र्विगलितैः प्रपंचं सिञ्चन्ती पुनरपि रसाम्नाय-महसः। अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि॥ १०॥

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शंभोर्नवभिरपि मूलप्रकृतिभिः। चतुश्चत्वारिंशद्-वसुदल कलाश्र त्रिवलय त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः॥ ११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः। यदालोकौत्सुक्या-दमरललना यान्ति मनसा तपोभि र्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम्॥१२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापांगालोके पतित मनुधावन्ति शतशः। गलद्वेणीबन्धाः कुचकलश विस्रस्त-सिचया हटात् त्रुट्यत्काञ्च्यो विगलित-दुकूला युवतयः॥१३॥

क्षितौ षट् पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके हुताशे द्वाषष्टि श्चतुरधिक-पञ्चाश-दनिले। दिवि द्वि षट् त्रिंशन् मनसि च चतुः षष्टिरिति ये मयूखा-स्तेषा-मप्युपरि तव पादांबुज-युगम्॥ १४॥

शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां वर-त्रास त्राण-स्फटिकघुटिका-पुस्तक-कराम्। सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः॥१५॥

कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम्। विरिञ्चि प्रेयस्या स्तरुणतर-शृङ्गारलहरी- गभीराभि-र्वाग्भि र्विदधति सतां रञ्जनममी॥१६॥

सवित्रीभि र्वाचां चशि मणि शिला-भङ्ग रुचिभि- र्वशिन्याद्याभि-स्त्वां सह जननि संचिन्तयति यः। स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि- र्वचोभि-र्वाग्देवी-वदन कमलामोद मधुरैः॥ १७॥

तनुच्चायाभिस्ते तरुण-तरणि श्रीसरणिभिः दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः। भवन्त्यस्य त्रस्य द्वनहरिण शलीन-नयनाः सहोर्वश्या वश्याः कतिकति न् गीर्वाण गणिकाः॥१८॥

मुखम् बिन्दुं कृत्वा कुचयुगमध्-स्तस्य तदधो हरार्धं ध्यायेद्योः हरमहिषि ते मन्मथकलाम्। स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम्। १९॥

किरन्ती-मङ्गेभ्यः किरण निकुरुम्बामृतरसं हृदि त्वा-माधत्ते हिमकरशिला मूर्तिमिव यः। स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया॥२०॥

तटिल्लेखा-तन्वीं तपन-शशि-वैश्वानर-मयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम्। महापद्माटव्यां मृदित-मलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लाद-लहरीम्॥ २१॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः। तदैव त्वं तस्मै दिशसि निजसायुज्य पदवीं मुकुन्द- ब्रह्मेन्द्र-स्फुट मकुट-नीराजितपदाम्॥२२॥

त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा शरीरार्धं शंभो रपरमपि शङ्के हृतमभूत्। यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिल-शशिचूडाल मकुटम्॥२३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्व-न्नेतत् स्वमपि वपु रीश-स्तिरयति। सदा पूर्वः सर्वं तदिद-मनुगृह्णाति च शिव- स्तवाज्ञा मालम्ब्य क्षणचलितयो र्भ्रूलतिकयोः॥२४॥

त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे भवेत् पूजा पूजा तव चरणयो-र्या विरचिता। तथा हि त्वत्पादोद्वहन मणिपीठस्य निकते स्थिता ह्येते शश्वन्मुकुलित-करोत्तंस मकुटाः॥ २५॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम्। वितन्द्री माहेन्द्री विततिरपि संमीलित-दृशा महासंहारेस्मिन् विहरति सति त्वत्पति-रसौ॥२६॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्य क्रमण मशनाद्याहुति-विधिः। प्रणामः संवेशः सुखमखिल-मात्मार्पण दृशा सपर्या पर्याय-स्तव भवतु यन्मे विलसितम्॥२७॥

सुधामप्यास्वाद्य प्रति-भय-जरामृत्यु हरिणीं विपद्यन्ते विश्वे विधि शतमखाद्या दिविषदः। करालं यत् क्ष्वेलं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्क-महिमा॥२८॥

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोठीरे स्कलसि जहि जंभारि मकुटम्। प्रणम्रेष्वेतेषु प्रसभ मुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्ति र्विजयते॥२९॥

स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो निषव्ये नित्ये त्वा- महमिति सदा भावयति यः। किमाश्चर्यं तस्य त्रिनयन समृद्धिं तृणयतो महासंवर्ताग्नि- र्विरचयति नीराजन-विधिम्॥३०॥

चतुः- षष्ट्या तन्त्रैः सकल मतिसन्धाय भुवनं स्थितस्तत्तत्-सिद्धि प्रसव- परतन्त्रै पशुपतिः। पुनस्त्व-न्निर्बन्धा-दखिल पुरुषार्थैक घटना- स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम्॥३१॥

शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः स्मरो हंसः शक्र- स्तदनु च परा-मार-हरयः। अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम्॥ ३२॥

स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो- र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः। भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष वलयाः शिवाग्रौ जुह्वन्तः सुरभिघृत-धाराहुति- शतैः॥३३॥

शरीरं त्वं शंभोः शशि-मिहिर-वक्षोरुह-युगं तवात्मानं मन्ये भगवति नवात्मान-मनघम्। अतः शेषः शेषीत्यय-मुभय-साधारणतया स्थितः संबन्धो वां समरस-परानन्द-परयोः॥३४॥

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि त्वमाप स्त्वं भूमि-स्त्वयि परिणतायां न हि परम्। त्वमेव स्वात्मानं परिणमयितुं विश्व-वपुषा चिदानन्दाकारं शिवयुवति-भावेन बिभृषे॥३५॥

तवाज्ञाचक्रस्थं तपन-शशि कोटि-द्युतिधरं परं शंभुं वन्दे परिमिलित-पार्श्वं परचिता यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये निरालोकेऽलोके निवसति हि भालोक-भुवने॥३६॥

विशुद्धौ ते शुद्धस्फटिक-विशदं व्योम-जनकं शिवं सेवे देवीमपि शिवसमान-व्यवसिताम्। ययोः कान्त्या यान्त्याः शशिकिरण सारूप्यसरणेः विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती॥३७॥

समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम्। यदालापा-दष्टादश-गुणित विद्यापरिणतिः यदादत्ते दोषाद् गुण-मखिल-मद्भ् यः पय इव॥३८॥

तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम्। यदालोके लोकान् दहति महसि क्रोध-कलिते दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति॥३९॥

तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया स्फुर -न्नानारत्नाभरण-परिणद्धेन्द्र- धनुषम्। तव श्यामं मेघं कमपि मणिपूरैक- शरणं निषेवे वर्षन्तं-हरमिहिर तप्तं त्रिभुवनम्॥४०॥

तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरस-महाताण्डव -नतम्। उभाभ्या मेताभ्या-मुदय-विधि-मुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमत् जगदिदम्॥४१॥

गतै र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः। स नीडेयच्छाया-च्छुरण शबलं चन्द्र-शकलं धनुः शौनासीरं किमिति न निबध्नाति धिषणाम्।४२॥

धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर वनं घनस्निग्ध श्लक्ष्णं चिकुर-निकुरुंबं तव शिवे। यदीयं सौरभ्यं सहज मुपलब्धुं सुमनसो वसन्त्यस्मिन् मन्ये बलमथन-वाटी विटपिनाम्॥४३॥

तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी परीवाहस्रोतः-सरणिरिव सीमन्तसरणिः। वहन्ती सिन्दूरं प्रबलकबरी-भार-तिमिर- द्विषां बृन्दै-र्बन्दीकृतमिव नवीनार्क किरणम्॥४४॥

अरालैः स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम्। दरस्मेरे यस्मिन् दशनरुचि-किञ्जल्क-रुचिरे सुगन्धौ माद्यन्ति स्मरदहन-चक्षु र्मधुलिहः॥४५॥

ललाटं लावण्य-द्युति-विमल-माभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम्। विपर्यास-न्यासा-दुभयमपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राका-हिमकरः॥४६॥

भ्रुवौ भुग्ने किंचिद्भुवन-भय-भङ्ग- व्यसिनिनि त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां ध्रुतगुणम्। धनु-र्मन्ये सव्येतरकर-गृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च् स्थगयति निगूढान्तर-मुमे॥४७॥

अहः सूते सव्यं तव नयन-मर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया। तृतीया ते दृष्टि-र्दरदलित-हेमाम्बुज-रुचिः समाधत्ते सन्ध्यां दिवस निशयो-रन्तरचरीम्॥४८॥

विशाला कल्याणी स्फुटरुचि-रयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराऽऽभोगवतिका। अवन्ती दृष्टिस्ते बहुनगर-विस्तार-विजया ध्रुवं तत्तन्नाम-व्यवहरण-योग्या विजयते॥४९॥

कवीनां सन्दर्भ-स्तबक-मकरन्दैक रसिकं कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम्। अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ असूया-संसर्गा दलिकनयनं किञ्चिदरुणम्॥५०॥

शिवे शृङ्गारार्दा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती। हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा॥५१॥

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तु-श्चित्तप्रशम रस-विद्रावण फले। इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके तवाकर्णाकृष्ट-स्मरशर विलासं कलयतः॥५२॥

विभक्त-त्रैवर्ण्यं व्यतिकरित लीलाञ्जनतया विभाति त्वन्नेत्र त्रितय-मिद-मीशानदयिते। पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान् रजः सत्वं बिभ्रत् तम इति गुणानां त्रयमिव॥५३॥

पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये दयामित्रै-र्नेत्रै- ररुण-धवल-श्याम रुचिभिः। नदः शोणो गङ्गा तपनतनयेति ध्रुवममुम् त्रयाणां तीर्थाना मुपनयसि संभेद-मनघम्॥५४॥

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधर-राजन्यतनये। त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः परित्रातुं शङ्के परिहृत-निमेषा-स्तव दृशः॥५५॥

तवापर्णे कर्णे जपनयन-पैशुन्य- चकिताः निलीयन्ते तोये नियत-मनिमेषाः शफरिकाः। इयं च श्री-र्बद्धच्छद-पुटकवाटं कुवलयं जहाति प्रत्युषे निशि च विघटय्य प्रविशति॥५६॥

दृशा द्राघीयस्या दरदलित-नीलोत्पल-रुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे। अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकर निपातो हिमकरः॥५७॥

अरालं ते पालीयुगल-मगराजन्यतनये न केषा-माधत्ते कुसुमशर-कोदण्ड-कुतुकम्। तिरश्चीनो यत्र श्रवणपथ मुल्ल्ङ् घ्य विलसन् अपांग-व्यासंगो दिशति शरसन्धान-धिषणाम्॥५८॥

स्फुरद्गण्डाभोग-प्रतिफलित ताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम्। यमारुह्य द्रुह्य-त्यवनिरथ मर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते॥५९॥

सरस्वत्याः सूक्ती -रमृतलहरी कौशलहरीः पिबन्त्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम्। चमत्कार-श्लाघाचलित-शिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचन-माचष्ट इव ते॥६०॥

असौ नासावंश स्तुहिनगिरिवंश-ध्वजपटि त्वदीयो नेदीयः फलतु फल-मस्माकमुचितम्। वहत्यन्तर्मुक्ताः शिशिरकर निश्वास-गलितं समृद्ध् या यत्तासां बहिरपि च मुक्तामणिधरः॥६१॥

प्रकृत्याऽऽरक्ताया-स्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता। न बिंबं तद्बिंब-प्रतिफलन-रागा-दरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया॥६२॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणा-मासी दतिरसतया चञ्चु-जडिमा। अतस्ते शीतांशो रमृतलहरी माम्लरुचयः पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया॥६३॥

अविश्रान्तं पत्यु र्गुणगण कथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा। यदग्रासीनायाः स्फटिकदृष -दच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुशा॥६४॥

रणे जित्वा दैत्या-नपहृत-शिरस्त्रैः कवचिभिः निवृत्तै श्चण्डांश त्रिपुरहर निर्माल्य विमुखैः। विशाखेन्द्रोपेन्द्रैः शशिविशद-कर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूल-कबलाः॥६५॥

विपञ्च्या गायन्ती विविध-मपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने। तदीयै-र्माधुर्यै-रपलपित तन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम्॥६६॥

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनो-दस्तं मुहुरधरपानाकुलतया। करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते कथं-कारं ब्रूम-स्तव चुबुक-मौपम्यरहितम्॥६७॥

भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनाल श्रिय-मियम्। स्वतः श्वेता कालागरु-बहुल-जम्बालमलिना मृणाली-लालित्यं वहति यदधो हारलतिका॥६८॥

गले रेखास्तिस्रो गति-गमक-गीतैक-निपुणे विवाह-व्यानद्ध प्रगुणगुण संख्या-प्रतिभुवः विराजन्ते नानाविध-मधुर-रागाकर-भुवां त्रयाणां ग्रामाणां स्थिति-नियम सीमान इव ते॥६९॥

मृणाली मृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभव स्तौति वदनैः। नखेभ्यः सन्त्रस्यन् प्रथम-मथना-दन्तकरिपोः चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया॥७०॥

नखाना-मुद्योतै र्नवनलिनरागं विहसतां कराणां ते कान्ति कथय कथयामः कथमुमे। कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मी चरणतल लाक्षारस चणम्॥७१॥

समं देवि स्कन्द द्विपवदन-पीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुत मुखम्। यदालोक्याशङ्काकुलित-हृदयो हासजनकः स्वकुम्भौ हेरंबः परिमृशति हस्तेन झडिति॥७२॥

अमू ते वक्षोजा वमृतरस-माणिक्य-कुतुपौ न सन्देहस्पन्दो नगपति-पताके मनसि नः। पिबन्तौ तौ यस्मा-दविदित-वधूसङ्ग-रसिकौ कुमारावद्यापि द्विरदवदन-क्रौञ्चदलनौ॥७३॥

वहत्यम्ब स्तम्बेरम-दनुज कुंभप्रकृतिभिः समारब्धां मुक्तामणिभि रमलां हारलतिकाम्। कुचाभोगो बिम्बाधर-रुचिभि-रन्तः शबलितां प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव ते॥७४॥

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयः पारावारः परिवहति सारस्वतमिव। दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत् कवीनां प्रौढाना-मजनि कमनीयः कवयिता॥७५॥

हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः। समुत्तस्थौ तस्मा-दचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति॥७६॥

यदेतत्कालिन्दी तनुतर तरङ्गाकृति शिवे कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम्। विमर्दा-दन्योन्यं कुचकलशयो-रन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम्॥७७॥

स्थिरो गङ्गावर्तः स्तनमुकुल रोमावलि लता- कलावालं कुण्डं कुसुमशर-तेजो हुतभुजः। रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धे र्गिरिशनयनानां विजयते॥७८॥

निसर्ग क्षीणस्य स्तनतट-भरेण क्लमजुषो नमन्मूर्ते-र्नारीतिलक शनकै-स्त्रुट्यत इव चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा समावस्था-स्थेम्नो भवतु कुशलं शैलतनये॥७९॥

कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासमिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता। तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव॥८०॥

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात् नितम्बा दाच्छिद्य त्वयि हरणरूपेण निदधे। अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्ब-प्राग्भारः स्थगयति लघुत्वं नयति च॥८१॥

करीन्द्राणां शुण्डान् कनककदली-काण्डपटलीं उभाभ्यामूरूभ्या-मुभयमपि निर्जित्य भवति। सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुध-करिकुंभ द्वयमसि॥८२॥

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढ-मकृत। यदग्रे दृश्यन्ते दशशरफलाः पादयुगली नखाग्रच्छद्मानः सुर-मकुट-शाणैक-निशिताः॥८३॥

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया देहि चरणौ। ययोः पाद्यं पाथः पशुपति-जटाजूट तटिनी ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि-रुचिः॥८४॥

नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुत-रुचि-रसालक्तकवते। असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूना-मीशानः प्रमदवन-कङ्केलितरवे॥८५॥

मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते। चिरादन्तः शल्यं दहनकृत मुन्मूलितवता तुलाकोटिक्वाणैः किलिकिलित-मीशान-रिपुणा॥८६॥

हिमानी-हन्तव्यं हिमगिरि निवासैक-चतुरौ निशायां निद्राणं निशि-चरमभागे च विशदौ। वरं लक्ष्मीपात्रं श्रिय-मतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम्॥८७॥

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिन-कमठी कर्पर-तुलाम्। कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा॥८८॥

नखै-र्नाकस्त्रीणां करकमल-संकोच-शशिभिः तरूणां दिव्यानां हसत इव ते चण्डि चरणौ। फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ॥८९॥

ददाने दीनेभ्यः श्रियमनिश-माशानुसदृशीं अमन्दं सौन्दर्य-प्रकर-मकरन्दं विकिरति। तवास्मिन् मन्दार-स्तबक-सुभगे यातु चरणे निमज्जन् मज्जीवः करणचरणः षट् चरणताम्॥९०॥

पदन्यास-क्रीडा-परिचय-मिवारब्धु-मनसः स्खलन्तस्ते खेलं भवनकलहसा न जहति। अतस्तेषां शिक्षां सुभगमणि-मञ्जीर-रणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते॥९१॥

गतास्ते मञ्चत्वं द्रुहिण-हरि रुद्रेश्वर भृतः शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः। त्वदीयानां भासां प्रतिफलन रागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम्॥९२॥

अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे। भृशं तन्वी मध्ये पृथु रुरसिजारोह -विषये जगत्त्रातुं शंभो-र्जयति करुणा काचिदरुणा।९३॥

कलङ्कः कस्तूरी रजनिकर बिम्बं जलमयं कलाभिः कर्पूरै-र्मरकतकरण्डं निबिडितम्। अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधि-र्भूयो भूयो निबिडयति नूनं तव कृते॥९४॥

पुराराते-रन्तः पुरमसि तत-स्त्वच्चरणयोः सपर्या-मर्यादा तरलकरणाना-मसुलभा। तथा ह्येते नीता शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्त स्थितिभिरणिमाद्याभि-रमराः॥९५॥

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः। महादेवं हित्वा तव सति सतीना-मचरमे कुचाभ्या-मासङ्गः कुरवक-तरो-रप्यसुलभः॥९६॥

गिरामाहु-र्देवीं द्रुहिणगृहिणी मागमविदो हरेः पत्नीं पद्मां हरसहचरी-मद्रितनयाम्। तुरीया कापि त्वं दुरधिगम निस्सीम महिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि॥९७॥

कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरण निर्णेजन जलम्। प्रकृत्या मूकानामपि च कविता-कारणतया कदा धत्ते वाणीमुखकमल-ताम्बूल-रसताम्॥९८॥

सरस्वत्या लक्ष्म्या विधि-हरि सपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा चिरं जीवन्नेव क्षपित-पशुपाश व्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान्॥९९॥

प्रदीप-ज्वालाभि-र्दिवसकर-नीराजनविधिः सुधासूते-श्चन्द्रोपल-जललवै-रर्घ्यरचना। स्वकीयैरम्भोभिः सलिल निधि-सौहित्यकरणं त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम्॥१००॥ 

॥इति श्री शंकराचार्य-विरचिता सौन्दर्यलहरी समाप्ता॥

Tuesday, February 2, 2010

Ravana Lifting Kailash Mountain



Ravana Holding Kailash   

Ravana after conquering Lanka went to kailasam to see Lord Siva. But he was stopped by Nandi at the gate. Ravana became furious and abused Nandi calling him a “Monkey”. Nandi then cursed him saying that he will be destroyed by an army of Monkeys. Ravana then tried lifting Mount Kailash. Lord Siva got annoyed at the arrogance of Ravana and he pressed the mountain down using his little toe. Ravana was pinned down under the mountain . To get out of the situation Ravana made a veena using his nerves as string and one of his heads as base and composed a song called “ Siva Thandava”. Siva was very pleased by Ravana’s devotion. He released Ravana from underneath the mountain by removing his toe. 

Siva Thandava Sthothram

रावणकृत शिवताण्डवस्तोत्रम्
जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्‌।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम्‌॥ १॥
जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरी-
विलोलवीचिवल्लरीविराजमानमूर्धनि।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम॥ २॥
धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर-
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि॥ ३॥
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा-
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि॥ ४॥
सहस्रलोचनप्रभृत्यशेषलेखशेखर-
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः।
भुजङ्गराजमालया निबद्धजाटजूटकः
श्रियै चिराय जायतां चकोरबन्धुशेखरः॥ ५॥
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-
-निपीतपञ्चसायकं नमन्निलिम्पनायकम्‌।
सुधामयूखलेखया विराजमानशेखरं
महाकपालि सम्पदे शिरोजटालमस्तु नः ॥ ६॥
करालभालपट्टिकाधगद्धगद्धगज्ज्वल-
द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
-प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम॥। ७॥
नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्‌-
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरंधरः॥ ८॥
प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा-
-वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम्‌।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे॥ ९॥
अखर्वसर्वमङ्गलाकलाकदंबमञ्जरी
रसप्रवाहमाधुरी विजृंभणामधुव्रतम्‌।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे॥ १०॥
जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस-
-द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट्‌।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल-
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः॥ ११॥
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्-
-गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम्॥ १२॥
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्‌
विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन्‌।
विलोललोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्‌ कदा सुखी भवाम्यहम्‌॥ १३॥
इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसन्ततम्‌।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम्‌॥ १४॥
पूजावसानसमये दशवक्त्रगीतं
यः शंभुपूजनपरं पठति प्रदोषे।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखीं प्रददाति शंभुः॥ १५॥
इति श्रीरावणकृतं शिवताण्डवस्तोत्रं संपूर्णम्।